(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    

Mahabharat Part 4 | Virat Parva | महाभारत | विराट पर्व


॥ श्रीः ॥
4.13. अध्यायः 013
Mahabharata - Virata Parva - Chapter Topics
सहदेवेन गोपालवेषधारणेन विराटंप्रति गमनम् ॥ 1 ॥ विराटेन सहदेवस्य गोपालने नियोजनम् ॥ 2 ॥
Mahabharata - Virata Parva - Chapter Text

वैशम्पायन उवाच। 4-13-0x(3036)(28636)
अथापरोऽदृश्यत वै शशी यथा हुतो हविर्भिर्हि यथाऽध्वरे शिखी।
तथा समालक्ष्यत चारुदर्शनः प्रकाशयन्सूर्य इवाचिरोदितः ॥ 1 ॥ 4-13-1(28637)
तमाव्रजन्तं सहदेवमग्रणीर्नृपो विराटो नचिरात्समैक्षत।
प्रैक्षन्त तं तत्र पृथक्समागताः सभागताः सर्वमनोहरप्रभम्।
युवानमायान्तममित्रकर्शनं प्रमुक्तमभ्रादिव चन्द्रमण्डलम् ॥ 2 ॥ 4-13-2(28638)
यष्ट्या प्रमाणान्वितया सुदर्शनं दामानि पाशं च निबद्ध्य पृष्ठतः।
मौर्वी च तन्त्रीं महतीं सुसंहितां बालैश्च तारैर्बहुभिः समावृताम् ॥ 3 ॥ 4-13-3(28639)
स चापि राजानमुवाच वीर्यवान्कुरुष्व मां पार्थिव गोष्ववस्थितम्।
मया हि गुप्ताः पशवो भवन्तु ते प्रसन्ननिद्राः प्रभवोस्मि वल्लवः ॥ 4 ॥ 4-13-4(28640)
न श्वापदेभ्यो न च रोगतो भयं न चापि दावान्न च तस्कराद्भयम्।
पयःप्रभूता बहुला निरामया भवन्ति गावः सुभृता नराधिप ॥ 5 ॥ 4-13-5(28641)
निशम्य राजा सहदेवभाषितं निरीक्ष्य माद्रीसुतमभ्यनन्दत्।
उवाच हृष्टो मुदितेन चेतसा न बल्लवत्वं त्वयि वीर लक्षये ॥ 6 । 4-13-6(28642)
धैर्याद्वपुः क्षात्रमिवेह ते दृढं प्रकाशते कौरववंशजस्य वा।
नापण्डितेयं तव दृश्यते तनुर्भवेह राज्ये मम मन्त्रधर्मभृत् ॥ 7 ॥ 4-13-7(28643)
प्रशाधि मत्स्यान्सहराजकानिमान्बृहस्पतिः शत्रुयुतानिवामरान्।
बलं च मे रक्ष सुवेष सर्वशो गृहाण खङ्गं प्रतिरूपमात्मः ॥ 8 ॥ 4-13-8(28644)
अनीककर्णाग्रधरो बलस्य मे प्रभुर्भवानस्तु गृहाण कार्मुकम् ॥ 9 । 4-13-9(28645)
वैशम्पायन उवाच। 4-13-10x(3037)
विराटराज्ञाऽभिहितः कुरूत्तमः प्रशस्य राजानमभिप्रणम्य च।
उवाच मत्स्यप्रवरं महापतिः शृणुष्व राजन्मम वाक्यमुत्तमम् ॥ 10 ॥ 4-13-10(28646)
बालो ह्यहं जातिविशेषदूषितः कुतोऽद्य मे नीतिषु युक्तमन्त्रता ।
स्वकर्मतुष्टाश्च वयं नराधिप प्रशाधि मां गोपरिरक्षणेऽनघ ॥ 11 ॥ 4-13-11(28647)
वैश्योस्मि नाम्नाऽहमरिष्टनेमिर्गोसङ्ख्य आसं कुरुपुङ्गवानाम् ।
वस्तुं त्वयीच्छामि विशांवरिष्ठ तान्राजसिंहान्न हि वेद्मि पार्थान् ॥ 12 ॥ 4-13-12(28648)
न जीवितुं शक्यमतोऽन्यकर्मणा न च त्वदन्यो मम रोचते विभो ॥ 13 ॥ 4-13-13(28649)
विराट उवाच। 4-13-14x(3038)
त्वं ब्राह्मणो वा यदि वाऽपि भूमिपः समुद्रनेमीश्वररूपवानसि।
आचक्ष्व तत्वं त्वममित्रकर्शन न बल्लवत्वं त्वयि विद्यते समम् ॥ 14 ॥ 4-13-14(28650)
कस्यामि राज्ञो विषयादिहागतः किं चापि शिल्पं तव विद्यते कृतम्।
कथं त्वमस्मासु निवत्स्यसे सदा वदस्व किं चापि तवेह वेतनम् ॥ 15 ॥ 4-13-15(28651)
सहदेव उवाच। 4-13-16x(3039)
पञ्चानां पाण्डुपुत्राणां ज्येष्ठो राजा युधिष्ठिरः।
तस्याष्टौ शतसाहस्रं गवां वर्गाः शतंशतम् ॥ 16 ॥ 4-13-16(28652)
अपरे दशसाहस्रा द्विस्तावन्तस्तथा परे।
तेषां गोसङ्ख्य आसं वै तन्त्रीपालेति मां विदुः ॥ 17 ॥ 4-13-17(28653)
भूतं भव्यं भविष्यच्च यच्चान्यद्गोगतं क्वचित्।
न मेऽस्त्यविदितं किंचित्समन्ताद्दशयोजनम् ॥ 18 ॥ 4-13-18(28654)
गुणाः सुविदिता ह्यासन्मया तस्य महात्मनः।
आसीच्च स मया तुष्टः कुरुराजो युधिष्ठिरः ॥ 19 ॥ 4-13-19(28655)
अनेन गणिता गावो दुर्विज्ञेया महत्तराः।
बहुक्षीरतरास्ता वै बह्व्यः सत्यः सपुत्रिकाः ॥ 20 ॥ 4-13-20(28656)
क्षिप्रं च गावो बहुला भवन्ति न तासु रोगो भवतीह कश्चित्।
तैस्तैरुपयैर्विदितं मयैतदेतानि शिल्पानि मयि स्थितानि ॥ 21 ॥ 4-13-21(28657)
ऋषभानपि जानामि राजन्पूजितलक्षणान्।
येषां मूत्रमुपाघ्राय वन्ध्या अपि प्रसूयते ॥ 22 ॥ 4-13-22(28658)
वैशम्पायन उवाच। 4-13-23x(3040)
मत्स्याधिपो हर्षकलेन चेतसा माद्रीसुतं पाण्डवमभ्यभाषत।
नैवानुमन्ये तव कर्म कुत्सितं महीं समग्रामभिपातुमर्हसि ॥ 23 ॥ 4-13-23(28659)
अथ त्विदानीं तव रोचते विभो यथेष्टतो गव्यमवेक्ष मामकम्।
त्वदर्पणा मे पशवो भवन्तु वै पशून्सपालान्भवते ददाम्यहम् ॥ 24 ॥ 4-13-24(28660)
शतं सहस्राणि गवां हि सन्ति वर्णस्यवर्णस्य पृथग्गणानाम्।
ददामि तेऽहं वरमीप्सितं च यत्त्वदर्पणा मे पशवो भवन्त्विति ॥ 25 ॥ 4-13-25(28661)
वैशम्पायन उवाच। 4-13-26x(3041)
एवं विराटेन समेत्य पाण्डवो लब्ध्वा च गोबल्लवतां यथेष्टतः।
अज्ञातचर्यामवसन्महात्मा यथा रविश्चास्तगिरिं प्रविष्टः ॥ 26 ॥ 4-13-26(28662)
एवं विराटे न्यवसंश्च पाण्डवा यथा प्रतिज्ञाभिरमोघविक्रमाः ।
अबुद्धचर्यां चरितुं यथातथं समुद्रनेमीमभिशास्तुमुद्यताः ॥ 27 ॥ ॥ 4-13-27(28663)

इति श्रीमन्महाभारते विराटपर्वणि पाण्डवप्रवेशपर्वणि त्रयोदशोऽध्यायः ॥ 13 ॥


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.